“अतिमानवतायाः पथि” इति ग्रन्थस्य भूमिकानुवादः

यदा सर्वापरोपाया विलयन्ति तदात्मनि।

परिणत्यै सुसिद्धायै लुप्तां गतिं लभेमहि।।1

श्रीअरविन्दः

भूमिका

रहस्यानि तानि सरलानि।

यतः सत्यं सरलम्। तच्च भुवने सरलतमं तत्त्वम्। अतः एव तद् अस्माभिः अलक्षितं तिष्ठति। जगति एकमेव तत्त्वं, द्वे। तच्च आधुनिकैः गणितभौतिकवैज्ञानिकैः अपि क्रमशः अनुभूयते। तथैव तरणितापिततटे फेनाकुलान् उत्तुङ्गतरङ्गान् वीक्ष्यमाणेन केनापि स्मितिसुन्दरेण बालेन अपि तत् परिज्ञायते। सा एव फेनमाला किमपि आर्षस्मृतिबद्धं महान्तं लयम् उत्स्मृत्य स्फुरन्ती, चिरकालं चिरवेदनाश्च एकवृत्तान्तौ ग्रथयन्ती, आदिकालात् तटं सम्प्लावयति इव। तत् काचित् विकाररहिता सत्ता इव पुराणादपि पुराणं, समुद्रविहङ्गानां डयनपथमपि व्यापयत् विस्तृतादपि विस्तृतं, महत्, सर्वव्यापि च। युगयुगानां समुदायः, सर्वेषाम् आत्मनां समष्टिः,— इदं सर्वमपि स्फीतफेनेषु बिभ्राजमाने एकस्मिन् कणे क्षणाय अन्तर्निगूढं वर्तते। परन्तु तत् कणं, सा बालस्मितिः, तत् हर्षोत्थं क्षणं अस्माभिः लोपितम्। अतः तदैक्यभावं पुनः प्रतिष्ठापयितुं चेष्टमानाः वयं, तम् 1+1+1… इति गणकयन्त्ररीत्या योजनसूत्रैः लब्धुं प्रायतामहि। अपि सर्वासु दिक्षु सार्वलौकिकविद्यानां समुदाययोजनेन तदेकं सङ्गीतजनकं, भुवनविनोदकम्, अपस्मृतबाल्यहृदयस्य आह्लादकारणं शुद्धं स्वरं सृजेदिति अस्माकं काचित् महती भ्रान्तिः। अतः तत् किमपि सारल्यम् अस्माभिः प्राकरणिकपुस्तिकासु निबद्धम्। एवं जीवनं सरलीकर्तुं यावद् अस्माभिः लौकिकचातुर्येण सङ्गणकायितं, तावत् सः सारल्यसारसोपि सुदूरं परिभ्रष्टः, सा स्मितिः, सा फेनत्विषा नः समीकरणसूत्रैः प्रदूषिता। इदं शरीरम् अपि अस्माकं शरीरं वा वा इति संशयः एतत् चमत्कारमयं यन्त्रं सर्वमपि व्यगलत्

तथापि तदेकं तत्त्वं हि कापि अनन्या शक्तिः, यतो हि एककणे प्रोज्ज्वलं तद्, अन्येषु सर्वेषु कणेष्वपि उज्ज्वलं भवति एव। तज्ज्ञाते सर्वं ज्ञातम्। जगति एकैव शक्तिः द्वे। बालोऽपि जानाति यत् एव सम्राट्, अनपायः। परन्तु वर्धितः सः तद्विस्मरति। मनुष्याः, देशाः, सभ्यताश्च तत् महत् अपि तु सरलं रहस्यं मृगयन्तः स्वकीयरीत्या वृद्धिं गताः। युद्धेन वा देशान्तरविजयेन वा, ध्यानेन उत इन्द्रजालेन वा, सौन्दर्येण, नैकमतधर्मेण उत विज्ञानेन वा तद्रहस्यम् अन्वेषयन्तः ते नित्यं वर्धन्ते। अक्रोपोलिस्प्रासादस्य स्थपतिः, थीबदेशीयः मायावी, केप्केनेडिखगोलकेन्द्रस्य अन्तरीक्षयात्री, सिस्टर्शियमतस्य श्रमणः ; एतेषु कः अग्रयायी इति वस्तुतः ज्ञायते यतः तेषु अन्यतमः जीवनम् अवगन्तुं संसारत्यागी, अन्यः तदनभिज्ञः एवं संसारप्रियः, अन्यश्च सौन्दर्यकृत्, तथैव अपरोपि अचलाकाशे धवलरेखाकृत्। अपि तु अस्माकं तत् मन्त्रबलम् अद्यापि लब्धम्। तत् कणं बिन्दुमात्रम् अपि सर्जनसमर्थं, जगतः विस्तृते तीरे अधुनापि वर्तते। तथैव भ्राजते तद्ग्रहीत्रे, यथा नः मानवानां प्रागपि तारावितानच्छायायाम् अभ्राजत।

अन्यैः कथमपि तद्रहस्यं मनाक्स्पृष्टम्। प्राचीनयूनानदेशीयाः मिस्रदेशीयाः वा तत् रहस्यं जानीयुः अपि तु भारतस्य वैदिकाः ऋषयः तत् ध्रुवम् अजानन्। रहस्यानि तु सुतरुप्रसूतानि कुसुमानि इव। यतः तेषाम् अपि ऋतुः, अलक्ष्या वृद्धिः, तथैव आकस्मिकविकासः वर्तते। सर्वस्य कोपि समयः, यतः विहायसि ग्रहनक्षत्रयोगो वा, फेनक्षालिते उपले कस्यचित् जलकाकस्य गतिर्वा, तथा स्फीतोर्मिगर्भात् क्षणाय उत्क्षिप्ता सा एव फेनमाला वा स्यात् ; सर्वं खलु एकनियमानुसारं प्रचलति। तथैव मनुष्याः अपि। तत् रहस्यं किमपि ज्ञानं, कापि शक्तिः, यस्य कोपि स्वकीयः अङ्गभूतः कालनियमः। पूर्ववर्तिनां कोशानाम् अपेक्षया अधिकाभिवृद्धः एकः लघुकोशोपि स्वज्ञानशक्तेः पात्रीभवनार्थं वा, जगत्परिवर्तनार्थं वा असमर्थः। यावत् क्रमविकासात्मकम् अभ्युदयक्षेत्रं सज्जं तावत् तन्महाद्रुमविकासस्य प्रचोदनमपि अशक्यम्।

परन्तु सः समयः उपपन्नः।

यद्यपि तददृश्यं विकासभाव्यं पुष्पं पूयाक्तपिटक इव प्रतीयेत, तथापि समयः केवलम् उपपन्नः, परन्तु जगति सर्वत्र प्रस्फुटति। कलिकातानगरे युवच्छात्राः गान्धिमूर्तेः शिरोभङ्गं कुर्वन्ति ; पूर्वतनाः देवताः सम्प्रति जर्जरीभवन्ति; शास्त्रेण दर्शनेन पुष्टाः संस्कृताः मतयः प्रध्वंसार्थम् उत्कण्ठं कामयन्ते, अपि ते बाह्यबर्बरान् निमन्त्र्य स्वनिगडनाशाय अवलम्बन्ते, प्राचीनरोमीया इव। अन्ये रसायनसौख्यानि मार्गयन्तिसाम्प्रतिकावस्थापेक्षया अपरः कोपि मार्गः वरः इति मन्ये। धरित्री रूपान्तरप्रक्रियागतस्य देहस्य प्रतिकोशम् अगण्यैः उत्पाटितच्छिद्रैः स्वजृम्भणम् आर्तनादं प्रकटयति। अस्माकं वर्तमाने समये यत्किमपि अमङ्गलम् इति अवभासते तत् वस्तुतः किमपि प्रावृतं नवजन्म यस्य अङ्गीकारश्च अस्माभिः हि वेद्यते। वयं कस्यचित् नवक्रमविकाससन्धेः सम्मुखस्थाः स्मः, यस्य मुख्यता, महावानरात् आदिमानवोद्भवे कारणभूतस्य विकाससन्धेः समाना।

अपि तु यथा अस्माकम् इदम् अन्नमयशरीरम् एकमेव, तथा प्रतिकारः अपि एकः, सत्यमिव। अपि एकस्य कणस्य परिणामोऽपि अन्यकणानां परिणामं कारयिष्यति। परन्तु तत् कणं न्यायनियमानां संशोधने वा, नः व्यवस्थितप्रक्रियासु विज्ञानविषयेषु वा, धर्मेषु वा, विविधमतेषु वा— एतेषु वैविध्येषु न लभ्यते। तत् सर्वं तु पुरातनपद्धतेः यन्त्रस्वरूपस्य अङ्गानि भवति। तत्र एकस्यापि अङ्गस्य योजनं, निवारणं, संशोधनं वा अनपेक्षितम्— वयं च तन्नितान्तदशायां निरुद्धश्वासाः इव पीडिताः। इतोऽपि तत् कणम् अस्माकं लौकिकबुद्धिबद्धं वा मानवोन्नतेः परिणामः वा न भवति, यतः आद्यं तु तद्यन्त्रस्य मौलिकं निर्माणकारणं, द्वितीयं मनुष्यस्य दौर्बल्यानां तत्पूर्वमहत्त्वानां मण्डनलक्ष्यं समर्थकं च। श्रीअरविन्दः उवाच, मानवस्य अपरिपूर्णता तु महाप्रकृतेः अन्त्यसोपानं न भवति, परन्तु तत्परिपूर्णता अपि न तदात्मनः चरमशृङ्गम्।2 वस्तुतः तत् कणं, भविष्यद्वर्ति, मानवबुद्धेः अगोचरं तत्त्वम्। तथापि तत् अन्तर्निगूढगर्भेषु वर्धते पत्रात्यये किंशुकवृक्षस्य पुष्पोद्गमः इव।

भविष्यार्थं तु कोऽपि कर्णः वर्तते, किन्तु तन्निमित्तम् अस्माभिः तत्त्वस्य गर्भकेन्द्रं प्राप्तव्यम्। परन्तु मानवीयमापदण्डानुरूपं यत् सुन्दरं, न्याय्यं, श्रेयश्च तदितरं गर्भकेन्द्रम् क्व? कदाचित् जलत्यागिनां सरीसृपाणां डयनेच्छा वा, जङ्गलनिर्गतानाम् आद्यमानवजन्तूनां जगद्दर्शने अपूर्वः विचित्रः दृष्टिक्षेपः वा— सर्वं खलु अपरास्थितेः अवगमने कापि समाना प्रेरणा। रूपान्तरस्य समग्रशक्तिः तस्मिन् अपरस्तरोन्मुखे दृष्टिक्षेपे विद्येत, तथा सा दृष्टिः, सा प्रेरणा, उत तद् उत्कण्ठात्मकं केन्द्रं वा भविष्यसिन्धोः निर्गलप्रवाहाय मूलशक्तिः स्यात्।

तत् केन्द्रं च नूनं सर्वमयं, सर्वशक्तिशालि, मनुष्येषु प्रतिहृदयं, देशकालयोः प्रतिकणं प्रतिक्षणं च, फेनेषु प्रतिस्तोकं विराजमानस्य अगण्यतागुणविशेषस्य सौरभात्मनः कोऽपि स्फुलिङ्गः, यः क्षणांशमात्रं दृष्टिपतितात् रूपाद् अपि अविरतं प्रवर्धते।

भविष्यत् च अप्रतिप्रबन्धं भविष्यति शरणागतेभ्यः एव।

वयं च दृढं शपेमहे यत् मस्तिष्कोत्पन्नानां वैद्युतिकविनोदानाम् अपेक्षया किमपि रमणीयतरं भविष्यत् संवर्तते। यथा सरीसृपाणाम् उत्कृष्टतमः डयनशक्तः सरीसृपः क्रमविकासप्रसङ्गे चरमसृष्टिः न अभूत्, तथैव मनुष्योऽपि न चरमभूतः भवति। अनन्ते क्रमविकासतरङ्गे अवसानस्य क्व प्रसङ्गः अवकाशो वा? अस्मासु अपि सा अनन्तता स्पष्टं दृश्यते। यतः वयम्, अद्भुतादपि अद्भुतयन्त्राणां रचयितारः, मानवसामर्थ्यस्य अविश्रान्ताः सीमाविस्तारकाः, गुरुशुक्रादिग्रहपथगामिनः इति सम्प्रतीयते। परन्तु सर्वं खलु आभासमात्रा प्रतीतिः यस्या छलनात्मिका कठोरपरिणामा प्रवृत्तिः अनुक्षणं वर्धते। तत्र वस्तुतः न कोऽपि विस्तारः। अपि तु, ब्रह्माण्डस्य अपरे पारे करुणापात्रस्य जीवभूतस्य प्रेषणं केवलं, यस्य स्वजातिपरिपालनेऽपि अविद्या, तथा, स्वान्तोगह्वरेषु विद्यमानः भयंकरव्यालो वा मन्दं लप्यमानः शिशुः वा इति अनभिज्ञता च। अस्माकं तत्र न कापि प्रगतिः। वयं तु अनियमेन स्वबौद्धिकवागोलं वातफुल्लितमिव धमामः येन तत् अन्ततः स्वमुखे स्फुटेत्। अस्माभिः मानवता न विशोधिता अपि तु विफुल्लिता। एतदपि अन्यथा भवितुं न अशक्नोत्। दोषश्च अस्माकं गुणेषु वा बौद्धिकसामर्थ्येषु वा नास्ति, यतः तेषां अत्यन्तप्रयोगे वयं केवलम् अतिसाधवः वा राक्षसचरितानि अतिश्रेष्ठयन्त्राणि वा भवेम। क्रमविकासप्रविधौ यथा अतिशान्तस्य स्वगर्तनिगूढस्य सरीसृपस्य सर्वोन्नतपदवी असम्भवा, तथैव मनुष्येषु अतिसाधोः श्रमणस्यापि। अथवा अलमिति एतेन। सत्यं तावदेव— मानवस्य वा यस्य कस्यापि वा उत्कृष्टता संस्करणे संशोधने वा न, परन्तु कस्मिंश्चित् अपरस्मिन् तत्त्वे विद्यते यत् मानवभिन्नं विलक्षणं वर्तते, यच्च मनुष्यः सदा भवितुम् आस्पृहयति। अयमेव क्रमविकासस्य विधिः। मनुष्यः तु न अन्तिमः। मनुष्यः सङ्क्रमणपरः जीवभूतः3 इति श्रीअरविन्दः प्रावोचत्। सः अपरिहार्यतया अतिमानवे बद्धलक्ष्यः, यथा आम्रस्य तनुपल्लवः अपि अव्यभिचारेण आम्रबीजान्तर्गतः। अतः क्रमविकासे तत् सङ्क्रमणं कथम् इति एका एव चेष्टा, एका एव समस्या, युगयुगान्तरं देयोत्तरः एक एव प्रश्नः, यः अस्मद्भुवनपोतं सखेदम् अङ्गात् अङ्गं विदारयति।

निट्शेमहोदयः अपि एतदवदत्। परन्तु तस्य अतिमानवता मानवतायाः प्रफुल्लनमेव। यूरोपमहाद्वीपं दलता यत्कर्म तेन आचरितं, तदस्माभिः दृष्टमेव। तन्न हि क्रमविका, परन्तु निर्हृदयानां प्राचीनप्रतीचीनबर्बराणां मानवाहङ्कारं प्रति अनुच्युतिः। अस्माकं श्रेष्ठमनुष्यः नापेक्षितः, अपि तु अन्यत् किमपि, यत् मनुष्यस्य हृद्गह्वरे गुञ्जति, एवं मनुष्यात् तावत् विलक्षणं भवति यावत् बाख्सङ्गीतविदुषः गीतरचनानि, आदिमानवस्य वन्यघर्घरितेभ्यः विभिन्नानि भवन्ति। अपि च कामं, समुन्मीलिते भविष्यस्य सङ्गीतस्वरासक्ते अस्मदन्तःश्रवणे च, बाख्महोदयस्य रचनानि अपि अवराणि एव श्रूयन्ते।

तदिदमेव उन्मीलनं नवविकासो वा यत् वयं श्रीअरविन्दस्य तथा तत्कार्याग्रनेत्र्याः श्रीमातुः च शिक्षादीपिकया गवेषयितुम् उत्सुकाः। सा च शिक्षा क्रमविकासात्मके रूपान्तरे कापि प्रतिष्ठिता पद्धतिः यया वयं स्वविकासमार्गे सुव्यवस्थिताः कर्णधारकाः भवामः। एवं वैज्ञानिकरीत्या परीक्षापुरस्सरं वयं विकसामः, यथा अन्ये परीक्षणनालिकया गर्भनिर्माणं चेष्टन्ते। अपि तु ते पुनः तन्नालिकायां स्वगतराक्षसाणां समानं प्रतिनादमेव शृणुयुः।

जीवनस्य मर्म जीवने न विद्यमानं, तथैव मनुष्यस्यापि रहस्यं न मनुष्ये विद्यते, यथा पङ्कजस्य रहस्यं स्वगर्भभूते पङ्के इति श्रीअरविन्देन प्रोक्तम्। तथापि पङ्कः सूर्यकिरण कस्यापि उन्नततरस्य ऐक्यं सर्जने सृजतः। अयं स सङ्गमः, विनिमयस्य केन्द्रं यत् अस्माभिः गवेषणीयम्। तदा मन्ये समुद्रवेलायां शान्तबालस्य फेनकणसमालोकनं वा, भुवनपरिभ्रामकं परमसङ्गीतं वा, तथा उचितमुहूर्तं प्रतीक्षमाणं महाद्भुततत्त्वं वा अस्माभिः अवगम्येत।

अपि च यत् मनुष्यशक्त्या असम्भवं तत् बाल्यलीलया साध्यं भूयात्।।

1 सावित्री(पृ. 256)

2 CWSA— 22: 793

3 CWSA— 12:157

Uncategorized में प्रेषित किया गया

Leave a Reply

Your email address will not be published. Required fields are marked *

*